Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सम्पूर्णे विश्वे मईमासस्य त्रयोदशदिनाङ्कः मातृदिवसरूपेण आचर्यते। फेसबुक-ट्विटर-आदिषु सामाजिकप्रसारमाध्यमेषु जनाः सन्देशान् सचित्रं प्रेषयन्ति स्वकृतज्ञतां च प्रकटयन्ति । मातृदेवो भव, पितृदेवो भव इति अस्माकं संस्कृतिः अस्ति तथापि वृद्धाश्रमाणां सङ्ख्या प्रतिदिनं वर्धते एव। सहनशक्तेः अभावकारणात् विभक्तकुटुम्बानां सङ्ख्या वर्धते। एतादृश्यां परिस्थितौ वृद्धपितॄणां दयनीया स्थितिः भवति। एतस्य परिहाराय मोदिसर्वकारः संविधाननियमेषु परिवर्तनाय सिद्धतायामस्ति येन कोऽपि पुत्रः वृद्धपितरौ त्यक्तुं चेष्टां न करिष्यति। नियमेषु तादृशं परिवर्तनं भविष्यति येन यदि पुत्रैः पितरौ त्यक्तौ ताभ्यां सह दुर्व्यवहारः वा कृतः तर्हि षण्मासानां कारावासः भविष्यति। वरिष्ठनागरिकाधिनियम-२००७ अन्तर्गतं एतदर्थं केवलं त्रयाणां मासानां कारावासस्य दण्डः अस्ति परन्तु अत्र परिवर्तनं कृत्वा षण्मासानां भविष्यति। सामाजिक-न्यायः एवं अधिकारितामन्त्रालयः इत्यस्य एकेन अधिकारिणोक्तं यत् एतदर्थं संशोधनविधेयकस्य प्रारूपमपि सिद्धमस्ति। संशोधने पुत्राणां परिभाषा अपि विस्तृता भविष्यति ।

अद्यतनवार्ता

भारतम्

विश्वम्