Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कर्णाटकराज्ये नूतनविधानसभायाः निर्वाचनार्थं गतदिवसे सप्ततिः प्रतिशतं मतदानं आयोगेन उद्घोषितम्। निर्वाचनोपयुक्तः उमेशसिंहा वार्ताहरान् व्यज्ञापयत् यत् मतदानानां प्रतिशतता निर्णायक-आकलनप्राप्तेः अनन्तरं प्रवर्धितुं शक्नोति।

जयानगरे भाजपाभ्यर्थिनः मृत्युकारणात् अपि च राजराजेश्वरीनगरे नैकासां नैर्वाचनिक-विसंगतीनां प्राप्तिकारणात् मतदानं निरस्तमुद्घोषितम् । राज्यस्य हेब्बलक्षेत्रस्य लोट्टगोल्लाहल्ली-मतदानकेन्द्रे वृत्तस्य विसङ्गतिकारणात् निर्वाचनायोगेन पुनर्मतदानमादिष्टमस्ति। निर्वाचनस्य मतदानं मङ्गलवासरे भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्