Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

यत्र सीमाप्रदेशेषु मातृभूमेः रक्षार्थं वीराः स्वप्राणानां आहूतिं समर्पयन्ति तत्र देशस्य अन्तः अपि मातृभूमौ स्निह्यन्तः स्वकर्तव्यं चेति मन्यमानाः नागरिकाः अपि स्वदायित्वात् विमुखाः न भवन्ति। मानवसर्जित-प्राकृतिक-विपत्तौ पूर्वं अजय-अक्षयादिभिः अभिनेतृभिः सहायता कृता आसीत् । रिलायन्सफाउन्डेशन इति संस्थानं स्वस्य सामाजिकं दायित्वं मत्वा सर्वदैव सत्कार्यं कुर्वत् अस्ति। संस्थानेन पुलवामा-हुतात्मानां अपत्यानां आजीवनं शैक्षणिकं आर्थिकं च दायित्वं स्वीकृतमस्ति। संस्थानद्वारा सञ्चालितस्य चिकित्सालयेऽपि आहतां सैनिकानां उपचारः विना मूल्यं भविष्यति इति नीता-अम्बाणी द्वारा उद्घोषितमस्ति। प्रख्यात-अभिनेत्रा अमिताभ-बच्चनद्वारा अपि प्रतिपरिवारं पञ्चलक्षरूपकाणां सहायता उद्घोषिता अस्ति । विभिन्नराज्यसर्वकारद्वारा अपि सहायता राशिः उद्घोषिता । सर्वकारद्वारा आरब्धस्य वित्तकोष-लेखायामपि जनाः यथाशक्ति सहयोगराशिं प्रेषयन्तः सन्ति।

चित्रं- प्रतिकात्मकम्

अद्यतनवार्ता

भारतम्

विश्वम्