Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संयुक्तराष्ट्रस्य उच्चस्तरीये कार्यक्रमे भारतस्य विदेशमन्त्रिण्याः सुष्मास्वराजस्य अमेरिकायाः राष्ट्रपतेः डोनाल्डट्रम्पस्य च मेलनं जातम्। उभाभ्यां परस्परं अभिवादनं कृत्वा कुशलता अपि ज्ञाता । अमेरिकायाः राष्ट्रपतिः  मादकपदार्थानां प्रतिरोधस्य एतस्मिन् कार्यक्रमे अध्यक्षः आसीत्। कार्यक्रमस्य समापनावसरे अमेरिकायाः राजदूत्या निक्कीहेलीद्वारा सुष्मास्वराजस्य आलिङ्गनमपि कृतम् राष्ट्रपतिना सह मेलनमपि कारितम्। यदा सुष्मया कथितं यत् सा प्रधानमन्त्रिणः नरेन्द्रमोदिनः पक्षतः शुभकामनाः स्वीकृत्य आगता अस्ति तदा तेनोक्तं अहं भारते स्निह्यामि, मम मित्राय नरेन्द्रमोदिने मम शुभकामनाः।

अद्यतनवार्ता

भारतम्

विश्वम्