गुजराते विधानसभायाः निर्वाचनं लक्ष्यीकृत्य कोंग्रेसस्य उपाध्यक्षस्य राहुलगान्धिनः मन्दिराकर्षणं वर्धितमस्ति। अद्य नवविंशतितमे दिनाङ्के राहुलेन सोमनाथदर्शनं कृतम्। दर्शनस्य पश्चात् तेन यस्यां पञ्जिकायां स्वस्य नामोल्लेखः कृतः। एतस्यां पञ्जिकायां अन्यधर्मिणः स्वपरिचयं लिखन्ति। तेन सह अहमद-पटेलस्य अपि नाम लिखितमासीत्। एतेन शीघ्रमेव सञ्चारमाध्यमेषु चर्चा आरब्धा यत् राहुलः हिन्दुः वा न। एतत् विचिन्त्य अभवत् वा केनापि कृतमिति संशोधनस्य विषयः अस्ति। सर्वदा मन्दिरेषु न गच्छन् राहुलः निर्वाचनसमये एव मन्दिरं गन्तुम् आरब्धवान् इत्यस्य आशयं मतदातारः तु जानन्ति एव।