Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अहमदाबादस्य प्रख्यातकलाकेन्द्रस्य प्राध्यापकं आशिससरकारं प्रति आक्षारणायाः आरोपः तत्रत्यया छात्रया कृतः। प्राध्यापकोऽयं कलाकेन्द्रे कलाकाररूपेण कार्यं करोति। पीडितछात्रा गुजरातविश्वविद्यालय-आरक्षकालये दोषारोपं प्रकटितवती। अपि च सा दूरदर्शनवाहिनीं प्रति स्वानुभवं श्रावितवती। तस्यै मार्गदर्शनाय एका अधिवक्त्री अपि  तत्र उपस्थिता आसीत्। तत्र एतस्मिन् विषये विस्तृता चर्चा अपि जाता आसीत्। छात्रायाः एतादृशी प्रतिक्रिया नितरां प्रशंसनीया यत् सा भयं विनैव सामाजिकप्रभावं अपरिगण्य एतादृशस्य दुष्कर्मणः सम्यक् विरोधं कृतवती।

अद्यतनवार्ता

भारतम्

विश्वम्