Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अटलायनम् - अटलदीपप्रकाशः गतः, अटलः अमरः जातः । 

अटल बिहारी वाजपेयी नाम्नः भारतीयमनस्सु राज्यकर्ता कविः राजनेता जनसामान्यस्य प्रतिनिधिः राजतन्त्रगुरुः सङ्घस्य स्वयं सेवकः प्रखरः देशभक्तः प्रतिपक्षप्रियः प्रधानमन्त्री आण्विकशक्तिपुरुषः भारतीयराजनीतेः भीष्मपितामहः विज्ञानमित्रम् राष्ट्रधर्म कुशलव्यवस्थापकः किं बहूना ! १९२४ तमे वर्षे दिसम्बरमासस्य पञ्चविंशतिः दिनाङ्के जन्म प्राप्तवतः एतस्य राजनायकस्य नाम इतिहासे अटलः ध्रुवतारकः इव अविस्मरणीयः जातः। भारतस्य दशमप्रधानमन्त्रिरूपेण भागत्रये भारतमातुः सेवां कृतवान् सः। कविहृदयस्य अटलस्य नैकाः कविताः लोकप्रियतां सम्प्राप्ताः आसन् ततोऽपि “हार नहीं मानुंगा….” सम्बोधनसामर्थ्यकलया सः अन्यराजपुरुषैः भिन्नः जातः आसीत् । प्रकाशपुञ्जस्य तस्यानुकरणं नैके नेतारः कर्तुं प्रयत्नं कृतवन्तः। “जय जवान जय किशान” सूत्रे  “जय विज्ञान” इति सूत्रं योजयित्वा भारतस्य विकासस्य स्वस्य कटिबद्धताम् अपि प्रकटितवान् अपि च इन्दिरागान्दन्धी इव पोखरणे अणुपरीक्षणं कृत्वा सम्पूर्णं विश्वं आश्चर्यचकितमकरोत्। भारतीयविज्ञानशक्तेः मनोबलस्य च परिचयं अकारयत् ।

स्पष्टावक्ता सत्यवक्ता सः इन्दिरां दुर्गा रूपेण सम्बोधितवान् नरेन्द्रं राजधर्मं पालयितुमपि उपदिष्टवान् सः। एषः युवकः भारतस्य प्रधानमन्त्री भविष्यति इति भविष्यवाणी प्रथमप्रधानमन्त्रिणा जवाहरेण अपि कृता आसीत्।

भारतपाकिस्थानयोः मध्ये प्रथमः बसयानव्यवहारः तस्यैव शासने आरब्धम् । स्वयमेव बसयानेन उपविश्य सः लाहोरं गतवान् आसीत् । एतादृशः राजपुरुषः वर्षेषु एकवारं एव जन्म प्राप्नोति इति सर्वैः अङ्गीकृतम् । यदा संसदि चर्चायां वक्तुं सः उत्तिष्ठति तर्हि तस्य विरोधं कर्तुं कस्यापि सामर्थ्यं नासीत् । तस्य स्थानं स्वीकुर्यात् तादृशः एकोऽपि राजनायकः अद्यत्वे नास्ति। यदा १९७१ तमे वर्षे भारतस्य भव्यः विजयः जातः तदा तेन इन्दिरा दुर्गा रूपेण सम्बोधिता।

 सः नववारं लोकसभायाः सभ्यः वारद्वयं च राज्यसभायाः सभ्यः आसीत्। १९६९तः १९७२ पर्यन्तं भारतीयजनसङ्घस्य प्रमुखः आसीत्।

तस्य जन्म एकस्मिन् सामान्य ब्राह्मणपरिवारे ग्वालियरे अभवत्। माता कृष्णादेवी गृहिणी पिता कृष्णबिहारी वाजपेयी कविः शिक्षकः चासीत्। सः लक्ष्मीबाईमहाविद्यालये हिन्दी आङ्ग्ल संस्कृतं चेति त्रिषु विषयेषु अनुस्नातकोपाधिं गृहीतवान्।

१९९२ तमे वर्षे पद्मविभूषणम्, १९९३ तमे वर्षे डी.लीट् उपाधिः १९९४ तमे वर्षे लोकमान्यतिलकसम्मानम्, १९९४ तमे वर्षे श्रेष्ठसंसद्सभ्यः, १९९४ तमे वर्षे भारतरत्नम् इत्यादिभिः उपाधिभिः सम्मानैः च सम्मानितः आसीत् ।

कविपितुः संस्काराः तस्य जीवने आरोपिताः जाताः आसन्। महात्मानः रामचन्द्रवीरस्य अमरकृतिविजयपताका इति पुस्तकेन तस्य जीवने आमूलं परिवर्तनं जातम्। विद्यार्थी-अवस्थातः एव सः राष्ट्रिय-स्वयं-सेवक-सङ्घस्य कार्यकरः आसीत्। डो. श्यामाप्रसादमुखर्जी पं.दीनदयाल-उपाध्यायः तस्य मार्गदर्शकौ आस्ताम्। एतेन सह सः पाञ्चजन्यम्, राष्ट्रधर्मः, दैनिक-स्वदेशः वीर-अर्जुनः इत्यादिनां पत्र-पत्रिकाणां सम्पादकः अपि आसीत्। मोरारजीदेसाईसर्वकारे अपि सः विदेशमन्त्री आसीत्।

तेन भारत-उदय शाइनींग इन्डिया इति सूत्राणि अपि दत्तानि।

"मेरी कविता जंग का ऐलान है,

पराजय की प्रस्तावना नहीं।

वह हारे हुए सिपाही का नैराश्य-निनाद नहीं,

जूझते योद्धा का जय-संकल्प है।

निराशा का स्वर नहीं,

आत्मविश्वास का जयघोष है............[

अद्यतनवार्ता

भारतम्

विश्वम्