Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातराज्यस्य गोधरानगरे शाटिकानां व्यापारिणः प्रधानमन्त्रिणः मोदिनः चित्रयुक्ताः शाटिकाः विक्रयणार्थम् आनीतवन्तः । त्रिपरिमाणीय-विमुद्रीकरणं, स्वच्छभारतं, मेकिंग-इन्डिया इत्यादिषु विषयेषु मोदिनः चित्रसहिता शाटिका जनानां आकर्षणस्य केन्द्रमभवत्। एतत् तदेव नगरमस्ति यत्र साबरमती-एक्स्प्रेस-ट्रेनयाने कारसेवकाः ज्वालिताः आसन् । एतस्मिन् एव नगरे एतादृश्यः शाटिकाः लोकप्रियाः जाताः सन्ति। शाटिकानां विक्रयणम् अपि उत्साहेन भवति । न केवलं शाटिकाः अपि तु मोदिनः नाम्ना चायचषकाः लेखन्यः, युतकानि, शिरस्त्राणि इत्यादयः वस्तूनि अपि विविधेषु स्थानेषु विक्रयणार्थं आगतानि सन्ति । एतेषां वस्तूनां महता प्रमाणेन क्रयणं मोदिनः लोकप्रियतामेव प्रकटयति । लोकसभायाः निर्वाचनस्य आरब्धे वातावरणे एतत् ध्यानाकर्षकमस्ति मुख्यतया प्रतिस्पर्धिभिः ।

अद्यतनवार्ता

भारतम्

विश्वम्