Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातस्य कच्छप्रदेशे हडप्पातः अपि पुरातनसभ्यतायाः अवशेषाः प्राप्ताः सन्ति। गुजराते भुजप्रदेशस्य १०२ किलोमीटरपरिमितं दूरे लखपत इति जनपदे नीनी-खटिया ग्रामे उत्खननसमये मानववसतेः अवशेषाः प्राप्ताः सन्ति। एतस्य उत्खननं कच्छविश्वविद्यालयस्य केरलविश्वविद्यालयस्य विशेषज्ञाः कारयन्ति। पुरातत्त्वविद्भिः उक्तं यत् प्राप्तांशैः ज्ञायते यत् भूमिः एषा मृतशरीराणां समाधिस्थलमस्ति। समीपे एव इष्टिकाः अन्यानि वस्तूनि अपि प्राप्तानि सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्