Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

नवरात्रस्य कालः शक्तेः आराधनायाः कालः गुजराते शक्तेः आराधनागरबाइति प्रसिद्ध-मण्डलगीतैः भवति। गरबा इति गुजरातस्य संस्कृतिः अस्ति। यूनां तु अयं प्रमुखं पर्व। गरबा इति गुजरातस्य प्रादेशिकभाषया एव भवन्ति परन्तु संस्कृतभाषया गायकानां वृन्दः यदि गरबा गीतानि गायन्ति तर्हि कथम् ?

गुजरातस्य प्रमुखे अहमदाबादनगरे संस्कृतभाषायाः प्रचारं कुर्वत्या संस्थया एकलव्य-संस्कृत-अकादमीद्वारा प्रचाराय प्रतिवर्षं संस्कृतगरबा आयोज्यते। कार्यक्रमस्य विशेषता यत् अत्र संस्कृतगरबा-गायकाः सर्वेऽपि संस्कृतस्य स्वयंसेवकाः। क्रीडकैः पूर्णे परिसरे संस्कृत-गरबागीतानां अद्भूतं वातावरणं सर्वान् आकर्षयति। संस्थायाः निदेशकेन डो.मिहिर-उपाध्यायेनोक्तं यत् संस्कृतभाषायाः संवर्धनाय एतादृशाः कार्यक्रमाः आकर्षकाः भवन्ति। प्रतिवर्षं खेलैया इति गरबा-क्रीडकानां सङ्ख्या वर्धमाना अस्ति। आगामिनि विंशति-दिनाङ्के अपि पुनश्च गरबा-कार्यक्रमः भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्