Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संस्कृतभारतीदिल्लीद्वारा जूनमासस्य द्वितीयदिनांके शिबिरचालकप्रशिक्षणवर्गस्य भाषाबोधनवर्गस्य च आरम्भः जातः। शिबिरमिदं जूनमासस्य त्रयोदशदिनांकपर्यन्तं प्रचलिष्यति। शिबिरस्य उद्घाटनावसरे संस्कृतभारत्याः अखिलभारतीय-अध्यक्षः प्रो. भक्तवत्सलशर्मा, श्रीलालबहादुरशास्त्रीविद्यापीठतः प्रो.कमलाभारद्वाज, विद्वत्परिषदः अध्यक्षः डा.गोविन्दाचार्यः, आईएएस-प्रशिक्षकः श्रीराकेश: च दीपप्रज्वालनं कृत्वा शिबिरस्य उद्घाटनं कृतवन्तः। अध्यक्षीयभाषणे प्रो.भक्तवत्सलेनोक्तं यत् संस्कृतं भारतस्य आत्मा वर्तते। भारतस्य उत्थानं संस्कृतेन एव सम्भवितम्। डा.गोविन्दाचार्येणोक्तं यत् संस्कृतसाहित्ये सम्पूर्णज्ञानविज्ञानं समाहितमस्ति। तत्रैव प्रो.कमलाभारद्वाजेन सर्वेषां शिविरार्थिनां कृते संस्कृतशिबिरं चालयितुम् आह्वानं कृतम्। कठिनपरिश्रमेण एव साफल्यं प्राप्यते अतः सामाजिककार्येषु सर्वेषां सहभागिता अतीव आवश्यकी इति आइएएसप्रशिक्षकेण श्रीराकेशमहोदयेनोक्तम्। एतस्मिन् शिबिरे १५० शिबिरार्थिनः समुपस्थिताः । शिविरेस्मिन् प्रातःआरभ्य सायं यावत् संस्कृतमयं वातावरणं दृष्टवा मनः आह्लादितो भवति।

अपरस्मिन् पक्षे सामाजिकशिबिरस्य आयोजनमपि प्रतिदिनं होराद्वयं भवति। यत्र प्रतिदिनं 25 सामाजिकाः सरलशिक्षणमाध्यमेन संस्कृतसम्भाषणस्य अधिगमं कुर्वन्ति । तेषु 17 बालकाः 08 वरिष्ठाः युवकाः वृद्धाश्च सन्ति। इमे प्रतिदिनं संस्कृतं पठितुमागच्छन्ति। सर्वे अतीव सोत्साहेन च संस्कृतसम्भाषणं कर्तुं प्रयत्नं कुर्वन्ति। वर्गे एव एकस्मिन् स्थाने संस्कृतप्रदर्शनी अपि स्थापिता अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्