Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

युक्रेनदेशे संस्कृतकक्षा:
युक्रेनदेशस्य भारतीयदूतावासे  सप्टेम्बरमासस्य एकादशदिनाङ्कात् संस्कृतशिक्षणस्य आरम्भ: जात:| एतस्मिन् वर्गे चत्वारिंशदधिकद्विशतं जना: पञ्जीकरणं कारितवन्त:| संस्कृतं भारतीयसंस्कृतिं प्रति जनानाम् उत्साह: अद्भूतमासीत्| भारतीयदूतेन मनोजकुमारेण इयं कक्षा स्वीकृता आसीत्|  एतस्य वर्गस्य अग्रिमकक्षा अष्टादश दिनाङ्के भविष्यति|    भारते संस्कृतस्य महत्त्वं जना: न अवगच्छन्ति परन्तु वैदेशिकानां संस्कृतं प्रति उत्साहं दृष्ट्वा अस्माभि: आत्मचिन्तनं तु अवश्यमेव करणीयम्|

अद्यतनवार्ता

भारतम्

विश्वम्