Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अक्टुबरमासस्य एकत्रिंशततमदिनं मूलतः भारतस्य उपप्रधानमन्त्रिणः ’सरदार’वल्लभभाई-पटेलस्य जन्मदिनमस्ति। दिनमिदं इन्दिरागान्धिनः पुण्यतिथिः अपि अस्ति। परन्तु एतस्मिन् वर्षे दिनमिदं स्टेचु ओफ युनिटी इति एकतामूर्तेः नाम्ना भविष्यति प्रसारमाध्यमैः। श्वः भारतस्य प्रवर्तमानप्रधानमन्त्रिणः नरेन्द्रमोदिनः गुजरातागमनं प्रतिमा-अनावरणं अपि च प्रधानमन्त्रिणः गमनपर्यन्तं दृश्य-श्राव्यप्रसारवाहिनीसु सरदारपटेलस्य संस्मरणानि एव लोकभोग्यानि भविष्यन्ति। कोंग्रेस-दलद्वारा नहेरुद्वारा च सरदारस्य कथं अवमानना कृता तस्यैव विवरणं चर्चा च भविष्यति माध्यमेषु। यतोहि सरदारगाथा दिनद्वयादेव प्रसार्यमाणा अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्