’टेस्टट्युब्’ इत्यनया पद्धत्या सीतायाः जन्म अभवत् – दीनेशशर्मा
उत्तरप्रदेशस्य उपमुख्यमन्त्रिणः दीनेशशर्मणः निवेदनेन राजनीतिः उष्णा जाता अस्ति। मथुरायां हिन्दीपत्रकारितादिवसस्य एकस्मिन् कार्यक्रमे सम्बोधयन् सः अवदत् यत् सीतायाः जन्म मृत्पात्रे अभवत् आसीत् अर्थात् तस्मिन् समये अपि टेस्ट-ट्युब् इत्यनया पद्धत्या प्रजोत्पत्तेः कल्पना आसीत्। रामायण-महाभारतकालीनविज्ञानं प्रकृष्टमासीत्।