Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मूकश्मीरस्य पुलवामा-विस्तारे केन्द्रीय-आरक्षित-आरक्षि-बलस्य वाहनस्योपरि आई-आई-टी इत्यनेन विस्फोटेन आतङ्कीवादिभिः आक्रमणं कृतम्। यदा आतङ्कवादिनाम् आक्रमणं जातं तदा आरक्षिबलस्य एकः गणः अवन्तिपोरा इति स्थानं प्रति गच्छत् आसीत् । न केवलं विस्फोटकैः आक्रमणं जातं अपि तु गोलिकास्त्रैः अपि दानवैः सैनिकानां नरसंहारः न त्यक्तः । एतस्मिन् आक्रमणे देशस्य चतुश्चत्वारिंशत् वीरसैनिकाः वीरगतिं प्राप्ताः सन्ति। आक्रमणेऽस्मिन् १०० किलो परिमितस्य आई-आई-डी इति रसायनस्य प्रयोगः कृतः आसीत् इति मन्यते। एतस्य विस्फोटस्य भयङ्करः ध्वनिः १० किलोमिटर दूरे अपि श्रुतः ।

अद्यतनवार्ता

भारतम्

विश्वम्