Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विंशत्युत्तर-द्विसहस्रतमे (2020) वर्षे दिल्ली-नगरे जातस्य साम्प्रदायिक-उपद्रवस्य समये गुप्तचर-विभागस्य (IB) अधिकारिणः अङ्कितशर्मणः निष्ठुरहत्याप्रकरणे करकरडूमा-न्यायालयेन शुक्रवासरे ऐतिहासिकः निर्णयः श्रावित:। न्यायालयेन आम-आदमी-दलस्य पूर्व-पौरसेवकः (काउन्सिलर) ताहिर-हुसैनः तथा च अन्ये चत्वारः अपराधिनः जनाः आजीवन-कारावास-दण्डेन दण्डिताः। न्यायाधीशेन उक्तं यत् अयं गुरुतर-अपराधः पीडितस्य धर्मम् एव आश्रित्य अत्यन्त-निर्दयतया कृतः आसीत्। अतः एतादृशानां पापिनराणां कृते एषः आजीवन-दण्डः एव न्याय्यः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्