भौतिकशास्त्रस्य २०२५ तमस्य वर्षस्य नोबेल् पुरस्कारं क्वाण्टम्-प्रौद्योगिक्याः क्षेत्रे महत्त्वपूर्ण-आविष्काराणां कृते त्रयः अमेरिकन-वैज्ञानिकाः जॉन् क्लार्क, मिशेल् एच्, ज्होन् एम्. चेति त्रयः प्राप्तवन्त:। विजेतारः प्रायः १२ लक्षं अमेरिकी-डॉलर् (प्रायः १० कोटिरूप्यकाणि) राशिं प्राप्स्यन्ति। अस्मिन् वर्षे भौतिकशास्त्रस्य नोबेल् पुरस्कारः विद्युत् परिपथेषु स्थूलदर्शी क्वाण्टम् यान्त्रिक सुरङ्गनिर्माणस्य ऊर्जा-क्वाण्टीकरणस्य च आविष्काराय प्रदत्तः।
रॉयल स्वीडिश एकेडमी आफ् साइंसेज इत्यनेन प्रसारिते वक्तव्ये उक्तं यत् क्वाण्टम् प्रौद्योगिक्यां द्वितीयस्तरस्य अवसराणां विकासे महत्त्वपूर्णं योगदानं प्रदातुं दत्तमस्ति।





















