Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरीकीय-फेडरल-रिजर्व-संस्थया (Fed) मौद्रिकनीतेः समीक्षां विधातुं पञ्च मुख्याः कार्यदलाः रचिता:, यत्र भारतीयमूलस्य त्रयः श्रेष्ठाः निपुणाः स्थानं अलभन्त। भारतीय-रिजर्व-बैंक-संस्थायाः (RBI) पूर्वप्रशासक: रघुरामराजनः, हार्वर्ड-विश्वविद्यालयस्य अर्थशास्त्री राजचेट्ठी, माइक्रोसॉफ्ट-संस्थायाः मुख्याधिकारिणी आशाशर्मा च अस्मिन् दले नियुक्ताः सन्ति। फेडरल-रिजर्व-संस्थायाः नूतनेन अध्यक्षेण केविनवार्शमहोदयेन एषा घोषणा कृता। रघुरामराजनः ‘सन्तुलनपत्रनीतेः’ (Balance sheet policy) समीक्षां विधास्यति, राजचेट्ठी ‘तथ्यकार्यदलस्य’ (Data task force) दायित्वं वक्ष्यति, आशाशर्मा च कृत्रिमप्रज्ञायाः (AI) प्रभावाणां मूल्याङ्कनाय ‘उत्पादकता-वृत्ति-कार्यदले’ (Productivity and Jobs task force) कार्यं करिष्यति। एतेषां वैज्ञानिकानाम् अर्थशास्त्रिणां च ज्ञानेन अमेरीकीय-अर्थव्यवस्थायाः नीतिनिर्धारणे महती सहायता भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्