सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः सूर्यकान्तमहोदयः तथा च न्यायाधीशः जोयमाल्याबागचीमहोदयः इत्येतयोः पीठेन पश्चिमबङ्गालराज्यस्य विधानसभानिर्वाचनं प्रति कश्चन महत्त्वपूर्णः निर्णयः श्रावितः। न्यायालयस्य कथनानुसारं येषां मतदातॄणां नामानि निर्वाचनसूच्याः निष्कासितानि, ते अधुना मतदानस्य अधिकारं न प्राप्स्यन्ति। अनेन निर्णयेन राज्यस्य चतुस्त्रिंशत्-लक्षं जनाः मतदानात् वञ्चिताः भविष्यन्ति। न्यायालयेन 'विशिष्टगहनसंशोधन' (SIR) प्रक्रियायाः विषये अपि प्रश्नः उत्थापितः यत् बिहारबङ्गालराज्ययोः नियमयोः मध्ये किमर्थं भेदः अस्ति? पीठेन चिन्ता प्रकटिता यत् मतदातारः द्वयोः संविधानिकसंस्थयोः (राज्य-प्रशासनं तथा निर्वाचन-आयोगः) सङ्घर्षे पीड्यमानाः सन्ति।





















