Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सोमवासरे ७७-तमस्य गणतन्त्रदिवसस्य अवसरे 'कर्तव्यपथे' भारतस्य सैन्यशक्तेः, सांस्कृतिकवैभवस्य तथा च 'ऑपरेशन-सिन्दूर' (Operation Sindoor) इत्यस्य शौर्यस्य अद्भुतं सङ्गमं दृष्टम्। अस्मिन् वर्षे संचलन-महोत्सवस्य मुख्यविषयः 'वन्दे-मातरम्' इत्यस्य १५० वर्षाणि आसीत्, किन्तु त्रिविध-सेनानां प्रदर्शनं विशेषतः 'ऑपरेशन-सिन्दूर' इत्यस्य उपरि केन्द्रितं आसीत्। 

'सिन्दूर-फॉर्मेशन' मध्ये वायुसेनायाः गर्जना : संचलने भारतीयवायुसेनायाः २९ विमानैः नभसि अद्भुतं 'फ्लाई-पास्ट' (Flypast) कृतम्। राफेल, सुखोई-३०, मिग-२९ तथा जगुआर-सदृशैः युद्ध-विमानैः आकाशे 'सिन्दूर-फॉर्मेशन' रचितम्। एतदतिरिच्य अर्जन, वज्रांग, वरुण, विजय इत्यादि-फॉर्मेशन-द्वारा वैमानिकैः युद्धकौशलं प्रदर्शितम्। नौसेनायाः पी-८आई (P-8I) विमानम् अपि अस्मिन् सम्मिलितम् आसीत्।

हाइपरसोनिक-प्रक्षेपास्त्राणां प्रदर्शनम् : संचलने भारतस्य आधुनिक-तन्त्रज्ञानेन निर्मितानि हाइपरसोनिक-प्रक्षेपास्त्राणि (Hypersonic Missiles) तथा 'फेज्ड-बैटल' ट्याङ्क-वाहनानि विश्वस्य समक्षं भारतस्य वर्धमानां सामरिक-शक्तिं प्रादर्शयन्।

यूरोपीय-अतिथीनां उपस्थितिः : अस्मिन् भव्य-समारोहे मुख्य-अतिथिरूपेण यूरोपीय-आयोगस्य अध्यक्षा 'उर्सुला-वॉन-डेर-लेयेन' तथा यूरोपीय-सङ्घस्य अध्यक्षः 'एन्टोनियो-कोस्टा' महोदयः उपस्थितौ आस्ताम्। ताभ्यामपि भारतस्य सांस्कृतिक-विविधतायाः प्रशंसा कृता।

अद्यतनवार्ता

भारतम्

विश्वम्