देहली-आरक्षक-दलस्य 'स्पेशल-सेल' (Special Cell) इत्यनेन एकस्य आतङ्कि-सञ्जालस्य रहस्योद्घाटनं कृतः। अस्मिन् प्रकरणे अष्ट (८) सन्दिग्धाः आतङ्किनः धृताः सन्ति। एतेषां सम्बन्धः पाकिस्तानस्य 'ISI' तथा बाङ्गलादेशस्य कट्टरपन्थि-सङ्घटनैः सह अस्ति। सुरक्षा-संस्थाभिः तमिळनाडु-राज्यात् षट् (६) तथा पश्चिम-बङ्गात् द्वौ (२) आतङ्किनौ गृहीता:। एतेषु एकः बाङ्गलादेशी-नागरिकः अपि अस्ति, यः कूट-आधारपत्रस्य (Fake Aadhaar) उपयोगं करोति स्म।





















