Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संयुक्तराष्ट्रसङ्घस्य संस्थया यूनाइटेड नेशन सस्टेनेबल डेवलपमेंट गोल (यूएनएसडीजी) इति द्वारा विश्वे स्वास्थ्यक्षेत्रे अपूर्वं योगदानं दत्तवद्भ्यः जनेभ्यः पारितोषिकद्वारा सन्मानं कृतम् । एतेषु पतञ्जलियोगपीठस्य महामन्त्री आचार्यः बालकृष्णः अपि समाविष्टः आसीत् ।

कार्यक्रमस्य उद्घाटनसत्रस्य प्रथमम् उद्बोधनं आचार्यस्य आसीत् । सः तद्भाषणं संस्कृतेन अकरोत् । एतद्पूर्वं पूर्वप्रधानमन्त्रिणा संयुक्तराष्ट्रसङ्घस्य कार्यक्रमे हिन्दीभाषया उद्बोधनं कृतमासीत् ।

भारते पत्रकारपरिषदि भाषमाणेन तेनोक्तं यत् अहं मम संस्कृतभाषायाः गौरवम् अनुभवामि । पतञ्जलिविश्वविद्यालयः संस्कृतं विश्वभाषां कर्तुं प्रयत्नं करिष्यति । पतञ्जलियोगपीठे भारतस्य प्राचीनशास्त्राणां पाण्डुलिपिनां हस्तप्रतानां उपरि संशोधनं जायमानमस्ति। एतेन भावि काले प्राचीनज्ञान-विज्ञानपरम्परायाः लाभं वयं प्राप्स्यामः ।

एतेन सम्मानेन एतत् स्वयं स्पष्टमस्ति यत् विश्वे योगस्य आयुर्वेदस्य अनन्यं स्थानमस्ति। प्राचीन-औषधीय-विज्ञानस्य महत्त्वं अद्यतन-विश्वजनाः अङ्गीकुर्वन्तः सन्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्