अफगानिस्तान-पाकिस्तानदेशयोः मध्ये एकसप्ताहस्य घोरसङ्घर्षस्य अनन्तरं ४८ घण्टानां युद्धविरामः घोषितः अस्ति। पाकिस्तानमन्त्रिणः वक्तव्यस्य अनुसारं पाकिस्तानदेशः अफगानिस्तानदेशात् विरक्तः अभवत् इति भासते। अत एव पाकिस्तानमन्त्री ट्रम्पं हस्तक्षेपं कर्तुं प्रार्थितवान्।
पाकिस्तानस्य रक्षामन्त्री ख्वाजा आसिफः अमेरिकाराष्ट्रपतिं द्वयोः देशयोः मध्ये प्रचलत् युद्धं स्थगयितुं मध्यस्थतां कर्तुं अनुरोधं कृतवान्। ख्वाजा आसिफः जियो टीवी इत्यस्मै दत्तसाक्षात्कारे ट्रम्पस्य बहु प्रशंसाम् अकरोत्, 'अहं मन्ये अमेरिकीराष्ट्रपतय: युद्धानां उत्तरदायिन: आसन्, परन्तु ट्रम्पः प्रथमः अमेरिकीराष्ट्रपतिः अस्ति यः युद्धानि स्थगितवान्। ट्रम्पः प्रथमः राष्ट्रपतिः अस्ति यः शान्तिवार्ता कृतवान्। यदि सः पाकिस्तान-अफगानिस्तान-सङ्घर्षे मध्यस्थतां कर्तुम् इच्छति तर्हि तस्य स्वागतम् अस्ति। स: भारतं लक्ष्यीकृत्य उक्तवान् यत् तालिबान्-सर्वकारः भारतस्य पक्षतः प्रॉक्सी-युद्धं कुर्वन् अस्ति । मम शङ्का अस्ति यत् भारतेन तालिबान्-सङ्घटनेन सह युद्धं प्रायोजितम्, यदि तालिबान्-सङ्घः युद्धविराम-कालस्य विस्तारं कर्तुं निश्चयं करोति तर्हि भारते एव निर्भरं भवति।





















