भारतस्य अनुसरणं कृत्वा अफगानिस्तानदेशः अधुना पाकिस्तानदेशं प्रति प्रवाहितं जलं अवरुद्ध्य जलबन्धनिर्माणस्य सज्जतां कुर्वन् अस्ति। अफगानिस्तानस्य सूचनामन्त्रालयेन गुरुवासरे X इत्यत्र एकस्मिन् सन्देशे एषा सूचना प्रदत्ता।
सूचनामन्त्रालयेन उक्तं यत् तालिबान् सर्वोच्चनेता मौलावी हिबातुल्लाह अखुन्जादा इत्यनेन कुनारनद्यां शीघ्रमेव जलबन्धनिर्माणस्य आदेशः दत्तः। एतत् सर्वविदितमस्ति यत् ९ अक्टोबर् तः १८ अक्टोबर् पर्यन्तं चलिते संघर्षे ३७ अफगानिस्तानस्य नागरिकाः मृताः, ४२५ जनाः च आहता:। पूर्वं भारतेन अपि सिन्धुजलसन्धिभङ्गं कृत्वा पाकिस्तानं प्रति गच्छत् जलम् अवरुद्ध्य जलप्रहार: कृत: आसीत्।
चित्रम् - प्रतीकात्मकम्।





















