Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उत्तरप्रदेशस्य प्रयागराजे प्रचलन्त्यां माघमेलायां प्रशासनस्य व्यवहारं दृष्ट्वा ज्योतिष्पीठस्य शङ्कराचार्यः स्वामी अविमुक्तेश्वरानन्दः अत्यन्तं व्यथितः जातः। प्रशासनेन सह जातस्य विवादस्य कारणात् तेन अद्य (बुधवासरे) पवित्रसङ्गमस्नानं विना एव मेलाक्षेत्रात् निर्गमनस्य घोषणा कृता।

पत्रकारपरिषदि भावुकहृदयेन शङ्कराचार्यः अवदत्, "वयम् अत्र आध्यात्मिकशान्तये आगताः आस्मः, किन्तु अत्र यत् घटितम्, तेन न्यायमानवतयोः अस्माकं विश्वासः खण्डितः। प्रशासनेन समाधानार्थं यदा कदापि इच्छानुसारं ससम्मानं स्नानव्यवस्थां कर्तुं प्रस्ताव: दत्त: अस्ति। मम स्वागतार्थं 'पुष्प-वर्षा' कर्तुमपि उक्तमस्ति, किन्तु जातस्य अपमानस्य कृते क्षमा न याचिता। यदि अहं क्षमां विना स्नानं करोमि, तर्हि अन्यायस्य विरुद्धं मम सङ्घर्षः अपूर्णः भविष्यति।"

शङ्कराचार्यः कठोरशब्दैः सर्वकारं चेतयमानः उक्तवान् यत्, "ये जनाः सनातनधर्मस्य विरोधं कुर्वन्ति, तेषां सत्तायां स्थातुं कोऽपि अधिकारः नास्ति।" अस्याः घटनायाः कारणात् देशस्य साधुषु भक्तेषु च तीव्रा प्रतिक्रिया दृष्टा अपि च ते पक्षे विपक्षे च स्वमतानि प्रदर्शयन्त: सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्