Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देशे भारतीय-जनता-पक्षस्य विजयाभियानम् अविरतं प्रचलति। महाराष्ट्रराज्ये गोवायां च स्थानीय-निर्वाचनेषु विपक्षस्य सूर्पस्वच्छता जाता अस्ति। इदानीं भाजपादलेन अरुणाचलप्रदेशस्य स्थानीयनिकायनिर्वाचनेषु अपि ऐतिहासिकः विजयः प्राप्तः अस्ति। 

प्रथमं महाराष्ट्रे स्थानीयनिर्वाचनेषु विपक्षसंघटनाय महाविकास-आघाडी-इत्यस्मै तीवाघात: प्राप्तः। विशेषरूपेण राज-ठाकरे-महोदयस्य नेतृत्वे स्थिता 'महाराष्ट्र-नवनिर्माण-सेना' (मनसे) इति दलं किमपि स्थानं प्राप्तुं सफलं न जातम्, अर्थात् एकस्मिन् स्थाने अपि विजय: न प्राप्त:।

उद्धव-ठाकरे-महोदयस्य शिवसेना (उभाठा) तथा च शरद-पवार-महोदयस्य राष्ट्रवादी-काङ्ग्रेस-दलम् (शरदचन्द्र-पवारः) अपि अतीव निराशाजनकं प्रदर्शनं कृतवन्तौ। 

देशस्य सुदूरपूर्वोत्तरराज्ये अरुणाचलप्रदेशे अपि भाजपादलस्य प्रभाव: दृश्यते। अद्य स्थानीयनिकायनिर्वाचनानां (Civic Polls) परिणामाः घोषिताः। एतेषु निर्वाचनेषु भारतीयजनतापक्षः बृहत्-अन्तरेण विजयं पञ्जीकृतवान् अस्ति। महाराष्ट्रस्य विजयस्य अनन्तरम् अरुणाचल-प्रदेशे प्राप्तः एषः प्रचण्ड-विजयः भाजपा-दलस्य कृते उत्साहवर्धकः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्