'आम आदमी' इति दलस्य कृते कश्चन वज्रपातः जातः। दलस्य राज्यसभासांसदः राघवचड्ढा स्वकीयपदतः त्यागपत्रं दत्तवान्। देहल्यां सन्दीपपाठक-अशोकमित्तलाभ्यां सह पत्रकारपरिषदि तेन घोषितं यत् राज्यसभायां दलस्य द्वितृतीयांशसदस्याः (२/३) भारतीय-संविधानस्य नियमानुसारं भारतीयजनतादले विलीनाः भविष्यन्ति।
चड्ढा-महोदयेन उक्तं यत्- "मया स्वकीयेन रक्त-स्वेदेन सिक्तम् एतत् दलम्, परं अधुना एतत् भ्रष्टं जातम्।अहं कश्चन 'शुद्धः पुरुषः' कस्मिश्चित् 'अशुद्धे दले' आसम् इति मे अनुभवः।" अस्मिन् पक्षपरिवर्तने हरभजनसिंहः, स्वातिमालीवाल, विक्रमजीतसाहनी प्रभृतयः सप्त सांसदाः भाजपादले प्रवेशं करिष्यन्ति।





















