नवदेहल्यां भारत-यूनाइटेडकिङ्गडम-देशयोः मध्ये व्यूहात्मक-साहचर्यं सुदृढं विधातुं गुरुवासरे (२३ एप्रिल् २०२६) एका महत्त्वपूर्णा गोष्ठी आयोजिता। भारतस्य राष्ट्रियसुरक्षा-उपदेष्टा (NSA) अजितडोभालमहोदयः स्वसमकक्षस्य जोनाथनपवेलमहोदयस्य स्वागतं कृतवान्। एषा चर्चा वार्षिक-भारत-यूके-व्यूहात्मक-संवादस्य अङ्गभूतं वर्तते।
प्रादेशिक-वैश्विक-सुरक्षा-आह्वानानि तथा च 'भारत-यूके दृष्टिः २०३५' (India-UK Vision 2035) इति दीर्घकालीन-मार्गचित्रम् अधिकृत्य विस्तृता मन्त्रणा अभवत्। अस्य लक्ष्यं पारम्परिकं क्रेतृ-विक्रेतृ-सम्बन्धं परित्यज्य गम्भीर-व्यूहात्मक-सहयोगं प्रति गमनम् अस्ति। विशेषतः वायुयानशास्त्रम्, समुद्र-यान्त्रिकी तथा च सायबर-सुरक्षा-क्षेत्रेषु उन्नततन्त्रांशस्य सहविकासः भविष्यति।





















