अन्ताराष्ट्रिय-स्तरे एकः गम्भीरः घटनाक्रमः जातः अस्ति। संयुक्तराज्य-अमेरिकया धार्मिकस्वतन्त्रतायाः रक्षणस्य नाम्नि एकं कठोरं सैन्यपदं स्वीकृतम्। प्राप्तसमाचारानुसारम्, अमेरिकादेशेन प्रायः दश-सहस्र (१०,०००) किलोमीटर-दूरे स्थिते एकस्मिन् मुस्लिमबहुलराष्ट्रे नाइजीरियादेशे क्षेपणास्त्राणां प्रहारः (Missile Attack) कृतः अस्ति। आकस्मिकसैन्य-कार्यवाह्याः पृष्ठतः अमेरिका-प्रशासनेन एकः गम्भीरः तर्कः उपस्थापितः। अमेरिकया तस्मिन् राष्ट्रे आरोपः स्थापितः यत् तत्र बहुसंख्यकमुसलमानजनै: ईसाई-अल्पसङ्ख्यक-समुदायस्य उपरि निरन्तरं सुनियोजित-रूपेण अत्याचारः क्रियते स्म, तेषां उत्पीडनं च भवति स्म। वस्तुत: ते तत् राष्ट्रं ’खिलाफत’शासनरूपेण इच्छन्ति। एतावत् दूरं गत्वा कृतेन अनेन क्षेपणास्त्रप्रहारेण अमेरिकादेशेन विश्वाय एकः कठोरः सन्देशः दत्तः अस्ति यत् धार्मिकस्वतन्त्रतायाः हननं तेन न सहिष्यते, तथा च एतादृश्यां स्थितौ अमेरिका सैन्यबलस्य प्रयोगं कर्तुम् अपि न संकोचं करिष्यति। अनेन घटनाक्रमेण वैश्विकराजनैतिकक्षेत्रे चिन्ता वर्धिता अस्ति।





















