Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अमेरिकादेशे राष्ट्रियप्रार्थनादिवसे राष्ट्रपतिभवनस्य रोज-गार्डन इत्यत्र बी.ए.पी.एस. मन्दिरस्य अर्चकद्वारा शान्तिपाठः अभवत् । कोरोना इति जनपदोध्वंसप्रभावितजनानां स्वास्थ्य-सुरक्षा-कुशलतार्थं कार्यक्रमोऽयम् अभवत् । राष्ट्रपतिनः आमन्त्रणमनुसृत्य न्यूजर्सीस्थितस्य बीएपीएस-स्वामिनारायण-मन्दिरस्य पुरोहितः हरीशः ब्रह्मभट्टः अन्यधर्मपण्डितैः सह तत्र प्राप्तः आसीत् ।

संस्कृतभाषायां मन्त्रोच्चारपूर्वं हरीशब्रह्मभट्टेन स्वस्य संक्षिप्तसम्बोधने उक्तं यत् कोरोनाविषाणोः अस्मिन् विपद्काले प्रार्थनायाः विशेषं महत्त्वम् अस्ति । सांसारिकवैभवाय धनसम्पत्तये सफलतायै यशप्राप्तये स्वर्गकामनायै वा अयं शान्तिपाठः नास्ति परन्तु शान्तिप्राप्तये अद्भूतं हिन्दुप्रार्थना अस्ति । प्रार्थनेयं वैदिकी अस्ति यस्य वर्णनं यजुर्वेदे प्राप्यते ।

शान्तिपाठसमप्त्यवसरे राष्ट्रपतिना डोनाल्डट्रम्पेन हरीशब्रह्मभट्टाय कृतज्ञता ज्ञापिता । तेनोक्तं यत् देशजनैः आस्थायां, प्रार्थनाशक्तौ, भगवतः अनन्तमहिमायां विश्वसः प्रदर्शितः अस्ति । तेन अग्रे उक्तं यत् अहं देशवासिभ्यः निवेदयामि यत् ते सर्वे हृदयेन प्रार्थनां कुर्वन्तु इति । मेलानियाट्रम्प अपि सामूहिकप्रर्थनायै आह्वानं कृतवती । तया उक्तं यत् १८६३तमे वर्षे सर्वप्रथमं राष्ट्रपतिना अब्राह्मलिंकनद्वारा सामूहिकप्रार्थनायाः आह्वानं कृतमासीत् ।

अद्यतनवार्ता

भारतम्

विश्वम्