उत्तरप्रदेशस्य राज्यपालः जननायकचन्द्रशेखरविश्वविद्यालयस्य कुलपतिः च आनन्दीबेनपटेलः मङ्गलवासरे विश्वविद्यालयपरिसरस्य आयोजने सप्तमे दीक्षान्तसमारोहे भागं गृहीतवती। समारोहभाषणे सा यूनां मध्ये प्रसृतस्य मादकद्रव्यसेवनस्य च सहवाससम्बन्धस्य च प्रवृत्तेः विषये चिन्ताम् व्यक्तवती। एतत् सर्वं चिन्ताजनकमस्ति। एतादृश्यां परिस्थित्यां कन्यानां शोषणं भवति अपि च तस्मिन् समये बान्धवा: परिवारजना: अपि साहाय्यं कर्तुं न शक्नुवन्ति । सा कन्या: सावधानतया व्यवहर्तुमुक्तवती। सा अवदत् - लोभजनकयुक्तिषु न पतन्तु, अपि तु स्वजीवनं श्रेष्ठलक्ष्याय समर्पयन्तु।





















