भारतसर्वकारस्य शिक्षामन्त्रालयान्तर्गतः केन्द्रीयसंस्कृतविश्वविद्यालयः संस्कृत-पालि-प्राकृत-भाषाणां संवर्धनाय छात्रवृत्ति-वित्तीय-साहाय्यार्थं च अन्तर्जाल-माध्यમેन (Online) आवेदनानि आह्वयति। अस्याः महायोजनायाः प्रमुखांशाः इत्थं सन्ति-
केंद्रीय-संस्कृत-विश्वविद्यालय-योजनाः (२०२६-२७)
- संस्कृत-शिक्षणम् - पूर्णकालिक-शिक्षकेभ्यः २ लक्षं ४० सहस्रं (२.४ लाख) रूप्यकाणि, अंशकालिकेभ्यः १ लक्षं २० सहस्रं (१.२ लाख), गुरु-शिष्य-परम्परायै ६०,००० तथा आवास-वृत्तये ६,००० रूप्यकाणां वित्तीय-साहाय्यं प्रदास्यते।
- छात्र-वृत्तयः - संस्कृत-पालि-प्राकृत-भाषाणां नवमीकक्षातः विद्यावाचस्पति: (Ph.D.) स्तरं यावत् अध्ययनरतेभ्यः छात्रेभ्यः ५,००० तः ३५,००० रूप्यकाणि यावत् छात्रवृत्तिः निश्चिता।
- सम्मान-राशिः - दीनपरिस्थितौ जीवनं यापयद्भिः मूर्धन्य-संस्कृत-विद्वद्भिः (पण्डितैः) षष्टिसहस्ररूप्यकाणां वार्षिकं सम्मान-धनं प्राप्स्यते।
- शास्त्र-चूडामणिः - सेवानिवृत्त-विशिष्ट-शास्त्राचार्याणां विशेषज्ञ-सेवा-ग्रहणाय २४ मासेषु आहत्य ४ लक्षं ८० सहस्रं रूप्यकाणां प्रतिष्ठितं मानधनं प्रदास्यते।
- कार्यक्रमाः गतिविधयश्च - संस्कृताभिवृद्धये अधिवेशनानां व्याख्यानानां च आयोजनाय संस्थाभ्यः प्रति-कार्यक्रमं १ लक्षं रूप्यकाणि यावत् अनुदानं लप्स्यते।
- व्यावसायिक-प्रशिक्षणम् - पारम्परिक-संस्कृत-संस्थासु छात्र-कौशल-विकासाय प्रति-प्रशिक्षणं १ लक्षं रूप्यकाणि यावत् आयोजनधनम्।
- प्रकाशन-साहाय्यम् - दुर्लभ-संस्कृत-ग्रन्थानां प्रकाशनाय, सामूहिक-क्रयणाय, तथा च पुनः मुद्रणाय विशेष-अनुदानं प्रदास्यते।
- अष्टादशी-प्रकल्पाः - संस्कृत-भाषायाः समग्र-विस्ताराय निरन्तर-विकासाय च अष्टादश (१८) विशिष्ट-संरचनात्मक-प्रकल्पानां संचालनं भविष्यति।





















