सिखसम्प्रदायस्य सर्वोच्चधार्मिकसंस्थया ‘अकालतख्त’ इत्यनया पञ्जाबराज्यस्य मुख्यमन्त्री भगवन्तमानः ‘पन्थविरोधी’ तथा ‘गुरुदोषी’ इति घोषितः। अकालतख्तस्य जत्थेदार-ज्ञानी-कुलदीपसिंह-गड्गजेन उद्घोषितं यत् मुख्यमन्त्री एकस्य आपत्तिजनकचलचित्रस्य विषये असत्यं वदन् खालसापन्थस्य मर्यादां उल्लङ्घितवान्। अतः सिखसमुदायाय मानमहोदयेन सह सम्बन्धविच्छेदस्य निर्देशः दत्तः। अपरपक्षे, आम-आदमी-दलस्य राष्ट्रियसंयोजकः अरविन्दकेजरीवालः अस्य विरोधं कृतवान्। तेन प्रदर्शितेन एकेन विवरणेन मुख्यमन्त्री भगवन्तमानः स्पष्टीकृतवान् यत्— "तच्चित्रं कृत्रिमबुद्ध्या (AI) निर्मितं मिथ्या अस्ति, न तु मम वास्तविकं स्वरूपम्। राजनैतिकलाभाय केचन मम दुष्प्रचारं कुर्वन्ति।" अकालतख्तसंस्थया २९ जून् दिनाङ्के राज्यस्य सर्वे सिखविधायका: मन्त्रिणः च चर्चार्थम् आहूता: सन्ति।





















