२०२५ तमस्य वर्षस्य एशियाकप-क्रिकेट्क्रीडायाम् अन्तिमचरणे भारतेन पाकिस्तानं पराजीतम्। अत्यन्त-उत्साहवर्धक-क्रीडायां भारतीयदलेन सम्पूर्णायोजनेन, उत्साहेन, धैर्येण च विजय: प्राप्त: अस्ति। एतत् सर्वविदितमस्ति यत् पहलगामप्रकरणानन्तरं जातस्य सिंदूर-अभियानस्य प्रभाव: अद्यापि तथैव अस्ति अर्थात् तदभियानं प्रचलत् एवास्ति। क्रीडाकाले पाकिस्तानक्रीडकै: भारतीयदलं हतोत्साहं कर्तुम् एक: अवसर: अपि न त्यक्त: परन्तु अन्ततो गत्वा भारतस्य विजय: अभवत्। अस्यां क्रीडायां अभूतपूर्वघटना: अपि जाता:। विजयस्यानन्तरं स्मृतिचिह्नं प्रदातुं एशिया-क्रिकेट्-परिषदः (एसीसी) अध्यक्षः, पाकिस्तानस्य गृहमन्त्री च मोहसिन् नकवी यदा आगत: तदा तस्य हस्तात् स्मृतिचिह्नं स्वीकर्तुं भारतीयदलेन नाङ्गीकृतम्। एतस्य कारणं वदन् दलनायकेन स्पष्टमुक्तं यत् य: देश: भारताय परमाणुशस्त्राणां भर्त्स्नं ददाति तस्य देशस्य गृहमन्त्रिण: हस्तात् स्मृतिचिह्नस्वीकरणं न योग्यम्। एतेन देशे विपरितसन्देश: गमिष्यति। दलनायकेन अयं विजय: राष्ट्राय समर्पित:।





















