अद्य (९ एप्रिल् २०२६) भारतस्य त्रिषु प्रमुखराज्येषु विधानसभानिर्वाचनाय मतदानं समाप्तं प्रति अस्ति। आसाम-केरल-पुदुचेरी-राज्येषु मतदातॄणां महान् उत्साहः दृश्यते। पञ्चवादनपर्यन्तम् आसामराज्ये ८४.४२%, पुदुचेरीराज्ये ८६.९२% तथा च केरलराज्ये ७५.०१% मतदानं सञ्जातम्। आसामस्य १२६, केरलस्य १४० तथा च पुदुचेरीराज्यस्य ३० आसनेषु जनता अभ्यर्थिनां भविष्यनिर्माणं करिष्यति।
आसामराज्ये शान्तिपूर्णमतदानाय १.५ लक्ष-परिमित-सुरक्षाकर्मिणः योजिता: सन्ति। अपरतः पुडुचेरीराज्ये भाजपा-काङ्ग्रेसदलयोः कार्यकर्तॄणां मध्ये कश्चन सङ्घर्षः जातः, यत्र आरक्षकैः यष्टि-प्रहारः कृतः। एतदतिरिच्य कर्नाटक-नागालैण्ड-त्रिपुरा-राज्येषु अपि उपनिर्वाचनं प्रचलति। गोवाराज्ये उपनिर्वाचने उच्चन्यायालयेन प्रतिषेधः कृतः, येन मुख्यमन्त्री प्रमोदसावन्तमहोदयः विस्मयं प्रकटीकृतवान्।