कार्तिकमेलके आगच्छतां भक्तानां मध्ये बालस्वरूपस्य दर्शनार्थम् उत्सुकता दृश्यते। राज्ञ: रामस्य दिव्यप्रतिमा अपि भक्तान् आकर्षयति। पञ्चदिनेषु सप्तलक्षाधिकाः भक्ताः दर्शनार्थम् आगता: सन्ति। प्रत्येकम् आगन्तुकस्य दृष्टौ अपि एतादृशी भावना प्रतिबिम्बिता आसीत् यत् "जीवनं धन्यम्, अहं भगवन्तं दृष्टवान्" इति। रामजन्मभूमिपरिसरे प्रातःकालादेव भक्तानां दीर्घा: पङ्क्तय: भवन्ति। भक्तानाम् उत्साहं दृष्ट्वा अनुमीयते यत् कार्तिकपूर्णिमायां इतोऽपि जनसम्मर्द: वर्धयितुं शक्नोति।