Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारत-बाङ्गलादेशयोः अन्ताराष्ट्रियसीमाप्रान्ते पुनः एकवारं महती चिन्तायुक्ता स्थितिः उत्पन्ना। असमराज्यस्य मानकाचार-क्षेत्रे सीमायाः 'तटस्थभूमौ' (No-man's land) नव बाङ्गलादेशीयनागरिकाः विगतदिनेभ्यः बद्धाः सन्ति, यान् बाङ्गलादेशस्य सीमारक्षकबलं (BBG) स्वीकर्तुं निरन्तरं प्रत्याख्याति। एतदर्थं भारतस्य सीमारक्षाबलेन (BSF) सह उच्चस्तरीया सभा अभवत्, किन्तु बाङ्गलादेशिनः स्वहठे दृढा: आसन्। बद्धाः नागरिकाः रोदन्तः अवदन् यत् ते बाङ्गलादेशस्य एव सन्ति, कार्यवेतनार्थं भारतम् आगताः, सम्प्रति पुनः भारतं न गमिष्यन्ति। भारतीयसुरक्षाबलैः सीमायां जागरुकता वर्धिता, तथा च विगते सप्ताहे एकविंशतिः (२१) अनुचितप्रवेशकारिणः लक्ष्यीकृत्य निष्कासिताः।

अद्यतनवार्ता

भारतम्

विश्वम्