अद्य १७ फरवरी दिनाङ्के बीएनपी-प्रमुखः तारिकरहमानः बाङ्ग्लादेशस्य नूतनप्रधानमन्त्रिरूपेण शपथं स्वीकृतवान्। अस्मिन् ऐतिहासिकसमारोहे भारततः लोकसभा-अध्यक्षः ओम-बिडला तथा विदेशसचिवः विक्रममिस्त्री उपस्थितौ आस्ताम्। विमानपत्तने बाङ्ग्लादेशस्य उच्चायुक्तः हमीदुल्लाहरियाजः तयोः भव्यस्वागतं कृतवान्।
समारोहाय भारत-चीन-पाकिस्तान-सहितं १३ देशेभ्यः निमन्त्रणं प्रेषितम् आसीत्। मलेशिया, मालदीव, तुर्की, श्रीलंका-देशानां प्रमुखाः अत्र साक्षात् उपस्थिताः । नूतनमन्त्रिमण्डले एकः हिन्दुनेता 'निताई-रॉय-चौधरी' अपि मन्त्रिपदं प्राप्तवान्। एतदतिरिच्य डॉ. खलीलुर-रहमानः विदेश-मन्त्री तथा अमीर-खसरु-महमूदः वित्त-मन्त्री नियुक्तः।





















