Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बेल्जियमदेशस्य न्यायालयेन पलायितव्यापारिणः मेहुल चोक्सी इत्यस्य प्रत्यर्पणस्य अनुमोदनं कृतम् अस्ति। पञ्जाब नेशनल् बैंक् (पीएनबी) प्रकरणस्य आरोपी मेहुल:, तस्य भागीनेय: नीरवमोदी च भारते वाञ्छितौ स्तः। सूत्रानुसारं न्यायालयेन भारतस्य प्रत्यर्पणस्य अनुरोधस्य समर्थनं कृत्वा प्रारम्भिकः आदेशः उद्घोषित: अस्ति। बेल्जियमदेशस्य एण्टवर्प्-नगरस्य न्यायालयेन भारतस्य अनुरोधस्य आधारेण तस्य ग्रहणं प्रमाणीकृत्य एषः आदेशः दत्त:। परन्तु अधिकारिणां मते अद्यापि तस्य उच्चन्यायालये निवेदनस्य विकल्पः अस्ति । अस्य अर्थः अस्ति यत् सः तत्क्षणमेव भारतं न आनीयते, परन्तु प्रक्रियायाः प्रथमं अतीव महत्त्वपूर्णं च चरणं पारितम् अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्