Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पश्चिमबङ्गालविधानसभानिर्वाचनस्य द्वितीयचरणे अद्य तीव्रसंघर्ष: तथा च हिंसाघटनानां मध्ये मतदानं अभवत्। मतदानसमये ईवीएम-यन्त्रैः सह व्यतिक्रमस्य तथा च मतपिञ्जस्य उपरि  'लेपनस्य' गम्भीराः आक्षेपाः कृताः। भाजपा-अभ्यर्थिना देवांशुपांडामहोदयेन कथितं यत् अनेकेषु केन्द्रेषु भाजपाचिह्नस्य उपरी भागे सूक्ष्माः पट्टिकाः स्थापिताः, येन मतदातारः भाजपादलाय मतदानं कर्तुं न शक्नुवन्ति। भाजपा-दलस्य आईटी-प्रमुखेण अमितमालवीयेन सामाजिकमाध्यमेषु केचन चलचित्र-खण्डाः प्रसारिताः। तेन एतत् "डायमण्ड-हार्बर-प्रारूपम्" इति संज्ञापितम्। तेन कथितं यत् असङ्ख्येसु मतदानकेन्द्रेषु (बूथ-संख्या १४४, १७०, १८९) भाजपादलाय मतदानस्य विकल्पः अवरुद्धः कृतः।

 

बेङ्गळूरु-नगरे मादक-द्रव्य-जालस्य उद्भेदनम्; चतुर्भिः वैदेशकै: सह १६ तस्कराः निरुद्धाः, ३६ कोटि-मूल्यस्य मादकद्रव्याणि निरुद्धानि

सूचनातन्त्रक्षेत्रस्य (IT Hub) केन्द्रभूते बेङ्गळूरुनगरे आरक्षकैः कस्यचित् विशालस्य मादकद्रव्यजालस्य उद्भेदनं कृतम्। नगरस्य विविधभागेषु कृतेन संयुक्त-अभियानेन आरक्षकैः १६ मादकद्रव्यविक्रेतारः निरुद्धाः। तेषां समीपात् अन्ताराष्ट्रिय-विपण्यां प्रायः ३६.६७ कोटि-रूप्यकाणां मूल्यस्य मादकद्रव्याणि हस्तगतानि। निरुद्धेषु चतुर्णाम् अन्ताराष्ट्रियनागरिकाणां उपस्थितिः अस्य जालस्य वैश्विकसम्बन्धं ज्ञापयति।

केन्द्रीय-अपराध-शाखा (CCB) तथा च स्थानीय-आरक्षकैः एतत् सम्पादितम्। निरुद्धेषु ८ पुरुषाः अन्यराज्येभ्यः, ४ स्थानीय-निवासिनः च सन्ति। एषा तस्कर-मण्डली विदेशेभ्यः अल्पमूल्येन द्रव्याणि आनीय नगरस्य युवकान् छात्रान् च प्रतार्य महता मूल्येन विक्रयणं करोति स्म। आरक्षकैः सूचितं यत् एतत् जालं मुख्यतया महाविद्यालयानां छात्रान् 'मृदु-लक्ष्यं' कृत्वा अवैधलाभं सम्पादयति स्म। सर्वेषां विरुद्घं NDPS नियमानुसारं अभियोगः पञ्जीकृतः, न्यायालयेन च ते 'न्यायिक-निरोधे' प्रेषिताः।

प्राप्त-द्रव्याणां विवरणम्: एमडीएमए (MDMA): ९.६४ किलोग्राम्। एलएसडी (LSD) पट्टिकाः: १९,७५५ सङ्ख्याकाः। हाइड्रो-गाञ्जा: ५.१९५ किलोग्राम्। हेरोइन्: १५६ ग्राम्। कोकेन्: ३३२ ग्राम् इत्यादय: ।

अद्यतनवार्ता

भारतम्

विश्वम्