बिहारराज्यस्य निर्वाचने एन.डी.ए. इति राष्ट्रियजनतान्त्रिकसंघटनेन भव्य: विजय: प्राप्त:। आहत्य २४३ स्थानेभ्य: २०२ स्थानेषु संघटनस्य विविधै: दलै: विजय: प्राप्त:। अत्र प्रथमे स्थाने भारतीयजनतापक्षेण ८९ स्थानेषु, जनतादल (युनाइटेड)द्वारा ८५, लोकजनशक्तिपक्षेण १९, हिन्दुस्थानी-आवाम-मोर्चाद्वारा ५, राष्ट्रियलोकमोर्चाद्वारा ४ स्थानेषु विजय: प्राप्त: अस्ति। अपरपक्षे महागठबंधन इत्यनेन केवलं ३५ स्थानेषु विजय प्राप्त: अस्ति यत्र राष्ट्रियजनतादलेन २५, कोंग्रेसपक्षेण ६, कम्युनिस्टपार्टीद्वयेन ३, इन्डियन-इन्क्लुसिवपक्षद्वारा १ स्थानेषु विजय: प्राप्त: अस्ति।