बिहारविधानसभानिर्वाचने १२२ आसनानां कृते द्वितीयचरणस्य मतदानस्य अद्य आरम्भः अभवत्। अस्मिन् मतदाने १३०२ अभ्यर्थीनां भाग्यस्य निर्णयः ३.७० कोटिः मतदातारः करिष्यन्ति। पश्चिमचम्पारण, पूर्वचम्पारण, सीतामढ़ी, मधुबनी, सुपौल, अररिया, किशनगंज सहितेषु 11 जनपदेषु इदं मतदानं भविष्यति। सर्वाणि क्षेत्राणि नेपालसीमासंलग्नानि सन्ति। मतदानकार्यार्थम् चतुर्लक्षाधिकाः कर्मचारिण: कार्यरताः सन्ति। मतदानं आहत्य ४५३९९ मतदानकेन्द्रेषु भविष्यति, येषु ४००७३ मतदानकेन्द्राणि ग्रामीणक्षेत्रेषु सन्ति।
चित्रं - प्रतीकात्मकम्





















