भारतीयजनतापक्षेण काङ्ग्रेसदलं प्रति गम्भीरः आरोप: कृतः यत् तत् स्वकीयराजनैतिकलाभाय दलितसमुदायं केवलम् एकं साधनं मत्वा उपयुङ्क्ते। नवदेहल्यां वार्ताहरसम्मेलने पक्षप्रवक्त्रा डा. गुरुप्रकाशपासवानेन डा. सुधांशुत्रिवेदिवर्येण च काङ्ग्रेसदलस्य इतिहासः दलितविरोधी इति प्रतिपादितः। ताभ्याम् उक्तं यत् काङ्ग्रेसदलस्य नेतारः स्वार्थसिद्धये समाजं विभक्तुं प्रयतन्ते, किन्तु वर्तमानप्रशासनेन बाबासाहेब भीमराव-आम्बेडकरवर्याणां स्मृतीनां संरक्षणाय तीर्थक्षेत्राणाम् इव विकासः कृतः। तथैव जम्मू-कश्मीरक्षेत्रात् अनुच्छेदानां निराकरणेन वाल्मीकिसमुदायस्य जनैः समानाधिकाराः प्राप्ताः। अतः काङ्ग्रेसदलस्य विभेदनकारिणी नीतिः जनानां पुरतः स्पष्टा वर्तते।