पश्चिमबङ्गालराज्ये भारतीयजनतादलस्य प्रचण्डविजयानन्तरं अगामि-९-मे-दिनाङ्के शपथग्रहणसमारोहस्य आयोजनं भविष्यति। अस्मिन् ऐतिहासिके क्षणे प्रसिद्धकविना कुमारविश्वासेन भाजपादलाय एकं महत्त्वपूर्णं सूचनं दत्तम्। तेन उक्तं यत्- "सर्वकारे तादृशानां जनानां प्रवेशः न भवेत् ये केवलं सत्तालोभेन दलं परिवर्तयन्ति।अयं विजयः येषां कार्यकर्तॄणां बलिदानेन सङ्घर्षेण च प्राप्तः, तेषामेव सम्मानं करणीयम्। ये जनाः पूर्वं वाम-पन्थ-शासने आसन्, ततः तृणमूल-काङ्ग्रेस-दले सम्मिलिताः, यदि ते एव अवसरवादिनः पुनः वेशं परिवर्तयन्तः भाजपादले आगमिष्यन्ति, तर्हि बङ्गालप्रजायाः कष्टानां अन्तः कदापि न भविष्यति।"
ममताबैनर्जीमहोदयायाः पराजयविषये तेन उक्तं यत् 'अति सर्वत्र वर्जयेत्'। यदा कश्चन नेता निरङ्कुशः भूत्वा समाजस्य भावनाः पीडयति, तदा प्रजा एव दण्डं ददाति। कुमारेण स्वकीय-अनुभवः अपि श्रावितः यत् कथं पूर्वसर्वकारेण तस्य पञ्चकार्यक्रमाः कारणं विना निरस्ताः कृताः।





















