अद्य भारतदेशे अष्टादशतमस्य ब्रिक्स-शिखरसम्मेलनस्य भव्यम् आयोजनं प्रवर्तते। अस्मिन् सम्मेलने रशियादेशस्य राष्ट्रपतिः व्लादिमीर-पुतिनः, ईरानदेशस्य राष्ट्रपतिः मसूद-पेज़ेश्कियानः, चीनदेशस्य राष्ट्रपतिः शि-जिनपिंग च समुपस्थिताः भविष्यन्ति। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी एतैः प्रमुखैः नेतृभिः सह विविधविषयेषु महत्त्वपूर्णाम् मन्त्रणां करिष्यति। भारतमण्डपमे 'समावेशी-वैश्विकशासनं बहुपक्षीयतायाः सुदृढीकरणं च' इति विषये विशेषसभा आयोजिता। प्रातःकालादेव विभिन्नराष्ट्राणां शासकप्रमुखैः सह द्विपक्षीयाः चर्चाः जायमाना: सन्ति। सायङ्काले प्रधानमन्त्रिणः नरेन्द्रमोदिनः चीनदेशस्य राष्ट्रपतेश्च मध्ये द्विपक्षीयवार्ता भविष्यति। सम्मेलनस्यान्ते भारतस्य आतिथ्ये सर्वेषां मान्यनेतॄणां कृते प्रीतिभोजस्य व्यवस्था कृता वर्तते। एतेन संवादेन विश्वे आर्थिकविकासस्य परस्परसहयोगस्य च नूतनः मार्गः प्रशस्तो भविष्यति।
चित्रम् : प्रतीकात्मकम्