अस्मिन् वर्षे भारतीयसंसदीय-इतिहासे एकः विरलः संयोगः दृष्टः भविष्यति। देशस्य सामान्यअर्थसंकल्प: (Union Budget) अस्मिन् वारं कार्यदिवसे न, अपितु रविवासर' संसदि प्रस्तुतः क्रियते। प्राप्तसूचनानुसारं, वित्तवर्षस्य २०२६-२७ कृते बजट-प्रस्तुतेः निर्धारितः दिनाङ्कः '१ फरवरी' वर्तते। अस्मिन् वर्षे अयं दिनाङ्कः रविवासरे पतति। यद्यपि रविवासरः संसदः सामान्यः अवकाशदिवसः भवति, तथापि परम्परां अनुसृत्य अस्मिन् विशेषे दिने सदनस्य कार्यं प्रचलिष्यति, वित्तमन्त्री च बजटं प्रस्तोष्यति। उल्लेखनीयम् अस्ति यत् एतस्मात् पूर्वं सन् २००३ तमे वर्षे (प्रायः २३ वर्षेभ्यः पूर्वम्) अपि एतादृशी स्थितिः उत्पन्ना आसीत्। तदा अटल-बिहारी-वाजपेयी-महोदयस्य सर्वकारे तत्कालीनवित्तमन्त्रिणा जसवन्तसिंहेन १ फरवरी दिनाङ्के, रविवासरे एव अर्थसंकल्प: प्रस्तुतः कृतः आसीत्।





















