देशे कर्मचारिणां त्रिदिवसीय-कर्मविरामात् पूर्वं वित्तकोशैः ग्राहकेभ्य: महती सान्त्वना दत्ता। आगामिनि अष्टविंशतितमे दिनाङ्कात् आरभ्य त्रिंशत्-दिनाङ्कं यावत् मुद्रावितरण-यन्त्रेभ्यो धनग्रहणे अतिरिक्तं शुल्कं न ग्रहीष्यते। सामान्यतः मासे परिमितं धनहरणम् एव निष्शुल्कं भवति, परं कर्मविराम-दिनेषु इयं मर्यादा शिथिला कृता। अनेन जनाः कस्यापि कोशस्य यन्त्रात् निर्बाधं स्वधनं ग्रहीतुं शक्ष्यन्ति। कोशकर्मिणः सप्ताहे दिनपञ्चक-कार्यव्यवस्थायाः प्रार्थनया कर्मविरामे प्रवृत्ताः सन्ति। अतः लोकसौकर्यार्थम् एषः सर्वकार-सम्बद्धानां वित्तकोशानां श्लाघ्य: निर्णय:।





















