Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीयमाध्यमिकशिक्षामण्डलेन (CBSE) राष्ट्रियशिक्षानीति-२०२० (NEP) अनुसृत्य कश्चन महत्त्वपूर्णः निर्णयः कृतः। अस्मिन् नूतननियमानुसारं षष्ठकक्षायाः सर्वेभ्यः छात्रेभ्यः तृतीयाभाषा (R3) अनिवार्यरूपेण पठनीया भविष्यति। मण्डलेन सप्तदिनेभ्यः पूर्वम् अस्य नियमस्य पालनाय सर्वेभ्यः विद्यालयेभ्यः निर्देशाः निर्गताः। अस्य निर्णयस्य मुख्य-उद्देश्यं छात्रेषु बहुभाषावादं (Multilingualism) तथा च सांस्कृतिकबोधजागरणम् अस्ति। त्रिभाषासूत्रेण छात्रेभ्यः तिस्रः भाषाः पठनीयाः भविष्यन्ति, यत्र द्वे भारतीयभाषे अनिवार्ये स्तः, तृतीया च वैदेशिकी भाषा (यथा आङ्ग्ल-भाषा) भवितुं शक्नोति। २०२४-२५ शैक्षणिक-सत्रात् अस्य आरम्भः भविष्यति। पूर्वप्रदत्तनिर्देशे प्रायश: सर्वत्र प्रश्ना: आसन् तस्य स्पष्टीकरणाय अद्यतननिर्देश: दत्त: अस्ति। षष्ठकक्षाया: कृते अस्मिन् वर्षे एव एतस्य निर्देशस्य पालनं करणीयं भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्