अमेरिकादेशे फ्लोरिडा-नगरपरिषदः रिपब्लिकन-नेता चॅण्डर-लैङ्गविन्-इत्यनेन सामाजिक-माध्यमेषु भारतीयानां विरुद्धम् अत्यन्तम् आक्षेपार्ह-पदानि स्थापयित्वा विवादः उत्पन्नः। सः भारतीयानां सामूहिकनिर्वासनस्य आह्वानं कृत्वा आरोपितवान् यत्, 'भारतीया: अमेरिकाजनानाम् आर्थिकशोषणार्थम् अत्र सन्ति' इति । परन्तु एतस्य विवादास्पदस्य वक्तव्यस्य अनन्तरं फ्लोरिडा-नगरपरिषदा स: पदच्युत: कृत: अस्ति। तस्य टिप्पणीयाः निन्दां कृत्वा परिषदा प्रस्तावः अपि पारितः अस्ति।





















