उत्तराखण्डराज्ये चतुर्धाम-यात्रायाः सिद्धता अतीव वेगेन प्रचलति। अस्मिन् वर्षे ६ मार्च २०२६ दिनाङ्कतः आरब्धायां पञ्जीकरणप्रक्रियायां अधुना यावत् दश-लक्षतः अधिकाः भक्ताः स्वनामानि पञ्जीकृतवन्तः। राज्यस्य मुख्यमन्त्रिणा पुष्करसिंह-धामी-महोदयेन उद्घोषितं यत् सर्वेषां तीर्थयात्रिणां कृते सुरक्षिता सरला च यात्रा भविष्यति। गङ्गोत्री-यमुनोत्री-धाम्नोः द्वाराणि १९ एप्रिल् दिनाङ्के उद्घाटयिष्यन्ते, ततः परं केदारनाथस्य २२ एप्रिल दिनाङ्के तथा च बद्रीनाथस्य २३ एप्रिल् दिनाङ्के द्वारोद्घाटनं भविष्यति। सर्वकारेण सूचितं यत् भक्ताः जालपुटेन (Website) अथवा चलवाणि-तन्त्रेण स्वकीयं स्लोट्-आरक्षणं (Slot Booking) कर्तुं शक्नुवन्ति। प्राकृतिक-विपत्तेः पूर्वसूचनापि यात्रिभ्यः समये समये दास्यते। पञ्जीकरण अत्र कर्तुं शक्यते -registrationandtouristcare.uk.gov.in





















